१८.३० प्रवृत्तिं च निवृत्तिं


श्लोकः सम्पादयतु

 
गीतोपदेशः
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ ३० ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रिंशत्तमः(३०) श्लोकः ।

पदच्छेदः सम्पादयतु

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥

अन्वयः सम्पादयतु

पार्थ ! प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च या वेत्ति सा बुद्धिः सात्त्विकी ।

शब्दार्थः सम्पादयतु

प्रवृत्तिम् = प्रवर्तनम्
निवृत्तिम् = निवर्तनम्
कार्याकार्ये = विहितं निषिद्धं च कर्म
भयाभये = भीतिम् अभीतिं च
बन्धम् = बन्धनम्
मोक्षम् = मुक्तिम् ।

अर्थः सम्पादयतु

अर्जुन ! यः धर्मे प्रवृत्तिम् अधर्मात् च निवृत्तिम्, देशकालादिविशेषेण कर्तव्यम् अकर्तव्यं च, कथं बन्धः, कथं च मोक्षः इत्येतत् या बुद्धिः जानाति सा बुद्धिः सात्त्विकी इति कथ्यते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु