यया धर्ममधर्मं च...
(१८.३१ यया धर्ममधर्मं च इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
- अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकत्रिंशात्तमः(३१) श्लोकः ।
पदच्छेदः
सम्पादयतुयया धर्मम् अधर्मं च कार्यं च अकार्यम् एव च अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥
अन्वयः
सम्पादयतुपार्थ ! यया धर्मम् अधर्मं च कार्यं च अकार्यम् एव च अयथावत् प्रजानाति सा बुद्धिः राजसी ।
शब्दार्थः
सम्पादयतु- धर्मम् = शास्त्रविहितम्
- अधर्मम् = शास्त्रनिषिद्धम्
- कार्यम् = कर्तव्यम्
- अकार्यम् = अकर्तव्यम्
- अयथावत् = अयाथार्थ्येन
- प्रजानाति = वेत्ति ।
अर्थः
सम्पादयतुपार्थ ! यया धर्मस्य अधर्मस्य शास्त्रसम्मतस्य कार्यस्य तदसम्मतस्य च अकार्यस्य यथावत् ज्ञानं न भवति सा बुद्धिः राजसी इति कथ्यते ।