धृत्या यया धारयते...
(१८.३३ धृत्या यया धारयते इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
- योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।
पदच्छेदः
सम्पादयतुधृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥
अन्वयः
सम्पादयतुपार्थ ! योगेन अव्यभिचारिण्या यया धृत्या मनःप्राणेन्द्रियक्रियाः धारयते सा धृतिः सात्त्विकी ।
शब्दार्थः
सम्पादयतु- अव्यभिचारिण्या = अविनाभूतेन
- यया धृत्या = येन प्रयत्नेन
- मनःप्राणेन्द्रियक्रियाः = चित्तप्राणेन्द्रियव्यापारान्
- योगेन = समाधिना
- धारयते = धरति
- धृतिः = प्रयत्नः
- सात्त्विकी = सात्त्विकी
अर्थः
सम्पादयतुअर्जुन ! फलनिरपेक्षः पुरुषः समाधिना सहैव वर्तमानया यया बुद्ध्या मनसः प्राणस्य इन्द्रियाणां च व्यापारान् धारयति तस्य पुरुषस्य सा धृतिः सात्त्विकी इत्युच्यते ।