यया तु धर्मकामार्थान्...

(१८.३४ यया तु धर्मकामार्थान्धृत्या इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुस्त्रिंशत्त्मः(३४) श्लोकः ।

पदच्छेदः सम्पादयतु

यया तु धर्मकामार्थान् धृत्या धारयते अर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥

अन्वयः सम्पादयतु

अर्जुन ! प्रसङ्गेन फलाकाङ्क्षी यया धृत्या धर्मकामार्थान् धारयते सा धृतिः राजसी ।

शब्दार्थः सम्पादयतु

धृत्या = प्रयत्नेन
धर्मकामार्थान् = पुरुषार्थान्
प्रसङ्गेन = कर्तृत्वाभिमानेन
फलाकाङ्क्षी = फलाभिलाषी ।
धारयते = अवधारयते
धृति: = उद्यम:
पार्थ = हे पार्थ !
राजसी = राजसी

अर्थः सम्पादयतु

अर्जुन ! कर्तृत्वाभिमानेन फलापेक्षः सन् यया धृत्या धर्मार्थकामान् पुरुषार्थान् धारयति सा धृतिः राजसी इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु