यया स्वप्नं भयं शोकं...
(१८.३५ यया स्वप्नं भयं शोकं इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यया स्वप्नं भयं शोकं विषादं मदमेव च ।
- न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ ३५ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।
पदच्छेदः
सम्पादयतुयया स्वप्नं भयं शोकं विषादं मदम् एव च न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥
अन्वयः
सम्पादयतुपार्थ ! दुर्मेधाः यया स्वप्नं भयं शोकं विषादं मदम् एव च न विमुञ्चति सा धृतिः तामसी ।
शब्दार्थः
सम्पादयतु- दुर्मेधाः = कुत्सितबुद्धिः
- स्वप्नम् = निद्राम्
- शोकम् = दुःखम्
- विषादम् = ग्लानिम्
- मदम् = गर्वम् ।
अर्थः
सम्पादयतुअर्जुन ! कुत्सितबुद्धिः यया धृत्या निद्रां त्रासं दुःखं ग्लानिं गर्वमपि न त्यजति सा धृतिः तामसी ।