यत्तदग्रे विषमिव...

(१८.३७ यत्तदग्रे विषमिव इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तत्रिंशत्तमः(३७) श्लोकः ।

पदच्छेदः सम्पादयतु

यत् तत् अग्रे विषम् इव परिणामे अमृतोपमम् तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥

अन्वयः सम्पादयतु

यत् तत् अग्रे विषम् इव परिणामे अमृतोपमम् आत्मबुद्धिप्रसादजं तत् सुखं सात्त्विकं प्रोक्तम् ।

शब्दार्थः सम्पादयतु

अग्रे = पूर्वम्
विषम् इव = विषवत्
परिणामे = परिपाके
अमृतोपमम् = अमृतसदृशम्
आत्मबुद्धिप्रसादजम् = स्वमतिनैर्मल्यसञ्जातम् ।

अर्थः सम्पादयतु

यत् सुखं पूर्वं विषवत् परिपाके अमृतसदृशं स्वमतिनैर्मल्यसञ्जातं तत् सुखं सात्त्विकं कथितम् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=यत्तदग्रे_विषमिव...&oldid=418746" इत्यस्माद् प्रतिप्राप्तम्