ब्राह्मणक्षत्रियविशां...
(१८.४१ ब्राह्मणक्षत्रियविशां इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
- कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकचत्वारिंशत्तमः(४१) श्लोकः ।
पदच्छेदः
सम्पादयतुब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप कर्माणि प्रविभक्तानि स्वभावप्रभवैः गुणैः ॥
अन्वयः
सम्पादयतुपरन्तप ! ब्राह्मणक्षत्रियविशां शूद्राणां च स्वभावप्रभवैः गुणैः कर्माणि प्रविभक्तानि ।
शब्दार्थः
सम्पादयतु- परन्तप ! = शत्रुतापन !
- ब्राह्मणक्षत्रियविशाम् = ब्राह्मणराजन्यवैश्यानाम्
- स्वभावप्रभवैः =प्रकृत्या जातैः
- गुणैः = सत्त्वरजस्तमोभिः
- कर्माणि = शमादीनि कर्माणि
- प्रविभक्तानि = विभक्तानि ।
अर्थः
सम्पादयतुअर्जुन ! ये ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राश्च सन्ति तेषां तत्तद्गुणवशात् कर्माणि विभक्तानि सन्ति ।