शमो दमस्तपः शौचं...
(१८.४२ शमो दमस्तपः शौचं इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
- ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ ४२ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वचत्वारिंशत्तमः(४२) श्लोकः ।
पदच्छेदः
सम्पादयतुशमः दमः तपः शौचं क्षान्तिः आर्जवमेव च ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् ॥
अन्वयः
सम्पादयतुशमः दमः तपः शौचं क्षान्तिः आर्जवम् एव च ज्ञानं विज्ञानम् आस्तिक्यं स्वभावजं ब्रह्मकर्म ।
शब्दार्थः
सम्पादयतु- शमः = मनोनिग्रहः
- दमः = बाह्येन्द्रियनिग्रहः
- तपः = विविधं व्रतम्
- शौचम् = शुचित्वम्
- क्षान्तिः = क्षमा
- आर्जवम् = अवक्रता
- ज्ञानम् = बोधः
- विज्ञानम् = शास्त्रानुभवः
- आस्तिक्यम् = आस्तिकभावः
- स्वभावजम् = स्वभावजातम्
- ब्रह्मकर्म = ब्राह्मणकृत्यम् ।
अर्थः
सम्पादयतुतत्र मनोनिग्रहः, बाह्येन्द्रियनिग्रहः, विविधं व्रतम्, शुचित्वम्, क्षमा, अवक्रता, ज्ञानम्, विज्ञानम्, आस्तिक्यं च ब्राह्मणानां स्वभावात् जातं कर्म ।