कृषिगौरक्ष्यवाणिज्यं...

(१८.४४ कृषिगौरक्ष्यवाणिज्यं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुश्चत्वारिंशत्तमः(४४) श्लोकः ।

पदच्छेदः सम्पादयतु

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् परिचर्यात्मकं कर्म शूद्रस्य अपि स्वभावजम् ॥

अन्वयः सम्पादयतु

कृषिगौरक्ष्यवाणिज्यं स्वभावजं वैश्यकर्म । शूद्रस्य अपि परिचर्यात्मकं स्वभावजं कर्म ।

शब्दार्थः सम्पादयतु

कृषिगौरक्ष्यवाणिज्यम् = भूकर्षणम् पाशुपाल्यम् क्रयविक्रयः च
स्वभावजम् = प्रकृतिसम्भवम्
वैश्यकर्म = वैश्यानां कर्म
परिचर्यात्मकम् = शूश्रूषात्मकम्
स्वभावजम् = स्वभावोत्पन्नम्
कर्म = कर्तव्यम् ।

अर्थः सम्पादयतु

कृषिः, गवादिरक्षणम्, क्रयविक्रयश्च वैश्यानां स्वभावात् जातं कर्म । एतेषां त्रयाणामपि साहाय्याचरणं शूद्रस्य स्वभावात् जातं कर्म ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु