स्वे स्वे कर्मण्यभिरतः...
(१८.४५ स्वे स्वे कर्मण्यभिरतः इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
- स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ ४५ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चचत्वारिंशत्तमः(४५) श्लोकः ।
पदच्छेदः
सम्पादयतुस्वे स्वे कर्मणि अभिरतः संसिद्धिं लभते नरः स्वकर्मनिरतः सिद्धिं यथा विन्दति तत् शृणु ॥
अन्वयः
सम्पादयतुनरः स्वे स्वे कर्मणि अभिरतः संसिद्धिं लभते । स्वकर्मनिरतः सिद्धिं यथा विन्दति तत् शृणु ।
शब्दार्थः
सम्पादयतु- स्वे स्वे = स्वस्मिन् स्वस्मिन्
- कर्मणि = कर्तव्ये
- अभिरतः = आसक्तः
- संसिद्धिम् = अभ्युदयम्
- लभते = प्राप्नोति
- स्वकर्मनिरतः = स्वकर्मानुष्ठाता
- विन्दति = लभते ।
अर्थः
सम्पादयतुमानवः स्वस्मिन् स्वस्मिन् कर्तव्ये आसक्तः अभ्युदयं प्राप्नोति । स्वकर्म आचरन् फलं यथा लभते तं प्रकारं शृणु ।