सहजं कर्म कौन्तेय...
(१८.४८ सहजं कर्म कौन्तेय इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
- सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ ४८ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टचत्वारिंशत्तमः(४८) श्लोकः ।
पदच्छेदः
सम्पादयतुसहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् सर्वारम्भाः हि दोषेण धूमेन अग्निः इव आवृताः ॥
अन्वयः
सम्पादयतुकौन्तेय ! सदोषमपि सहजं कर्म न त्यजेत् । धूमेन हि अग्निः इव सर्वारम्भाः दोषेण आवृताः ।
शब्दार्थः
सम्पादयतु- सदोषम् = दोषयुक्तम्
- सहजम् = स्वभावजम्
- सर्वारम्भाः = सर्वकर्माणि
- आवृताः = आच्छादिताः ।
अर्थः
सम्पादयतुअर्जुन ! दोषयुक्तम् अपि स्वभावजं कर्तव्यं न त्यजेत् । धूमेन अग्निः इव सर्वाण्यपि कर्माणि दोषेण आवृतान्येव भवन्ति ।