सिद्धिं प्राप्तो यथा ब्रह्म...

(१८.५० सिद्धिं प्राप्तो यथा ब्रह्म इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चाशत्तमः(५०) श्लोकः ।

पदच्छेदः सम्पादयतु

सिद्धिं प्राप्तः यथा ब्रह्म तथा आप्नोति निबोध मे समासेन एव कौन्तेय निष्ठा ज्ञानस्य या परा ॥

अन्वयः सम्पादयतु

कौन्तेय ! सिद्धिं प्राप्तः ब्रह्म यथा आप्नोति तथा मे (वचनात्) निबोध या ज्ञानस्य परा निष्ठा समासेन एव।

शब्दार्थः सम्पादयतु

सिद्धिम् = योग्यताम्
ब्रह्म = परमात्मानम्
निबोध = जानीहि
परा = उत्तमा
निष्ठा = स्थितिः
समासेन = सङ्ग्रहेण ।

अर्थः सम्पादयतु

एवं नैष्कर्म्यसिद्धिं प्राप्तः पुरुषः येन प्रकारेण परमात्मानं प्राप्नोति तं प्रकारं शृणु । तत्परमात्मनः प्राप्तिः नाम ज्ञानस्य परिसमाप्तिः इति जानीहि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु