१८.५३ अहंकारं बलं दर्पं कामं
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
- विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रिपञ्चाशत्तमः(५३) श्लोकः ।
पदच्छेदः
सम्पादयतुअहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् विमुच्य निर्ममः शान्तः ब्रह्मभूयाय कल्पते ॥
अन्वयः
सम्पादयतुविशुद्धया बुद्ध्या युक्तः धृत्या आत्मानं नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च विविक्तसेवी लघ्वाशी यतवाक्कायमानसः नित्यं ध्यानयोगपरः वैराग्यं समुपाश्रितः अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहं विमुच्य शान्तः निर्ममः ब्रह्मभूयाय कल्पते ।
शब्दार्थः
सम्पादयतु- अहङ्कारम् = अहम्भावम्
- बलम् = दार्ढ्यम्
- दर्पम् = गर्वम्
- परिग्रहम् = स्वीकारम्
- विमुच्य = त्यक्त्वा
- निर्ममः = ममताशून्यः
- ब्रह्मभूयाय = ब्रह्मभावाय
- कल्पते = शक्नोति ।
अर्थः
सम्पादयतुयः सात्त्विकबुद्ध्या युक्तो भवति, धृतिमान् भवति, चित्तं नियमयति, शब्दादीन् विषयान् त्यजति, रागद्वेषौ दूरीकरोति, निर्जने प्रदेशे वसति, मितं भुङ्क्ते, शरीरेन्द्रियमनांसि नियच्छति, सततं ध्यायन् वैराग्यं प्राप्नोति, अहङ्कारादि-दोषं च विमुञ्चति सः शान्तः ममताशून्यश्च ब्रह्मत्वं प्रतिपद्यते ।