सर्वकर्माण्यपि सदा...

(१८.५६ सर्वकर्माण्यपि सदा इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षड्पञ्चाशत्तमः(५६) श्लोकः ।

पदच्छेदः सम्पादयतु

सर्वकर्माणि अपि सदा कुर्वाणः मद्व्यपाश्रयः मत्प्रसादात् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥

अन्वयः सम्पादयतु

सर्वकर्माणि अपि मद्व्यपाश्रयः सदा कुर्वाणः मत्प्रसादात् अव्ययं शाश्वतं पदम् अवाप्नोति ।

शब्दार्थः सम्पादयतु

सर्वकर्माणि = निखिलकर्तव्यानि
मद्व्यपाश्रयः = मदाश्रयः
कुर्वाणः = आचरन्
मत्प्रसादात् = मदनुग्रहात्
अव्ययम् = अविनाशि ।

अर्थः सम्पादयतु

सः नित्यनैमित्तिकानि सर्वाण्यपि कर्माणि कुर्वन् मामेव आश्रयं मन्यमानः क्रमेण मदनुग्रहादेव मम अनश्वरं पदं प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सर्वकर्माण्यपि_सदा...&oldid=418860" इत्यस्माद् प्रतिप्राप्तम्