चेतसा सर्वकर्माणि...

(१८.५७ चेतसा सर्वकर्माणि इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ ५७ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तपञ्चाशत्तमः(५७) श्लोकः ।

पदच्छेदः सम्पादयतु

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव ॥

अन्वयः सम्पादयतु

सर्वकर्माणि चेतसा मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य सततं मच्चित्तः भव ।

शब्दार्थः सम्पादयतु

चेतसा = मनसा
सन्न्यस्य = समर्प्य
मत्परः = मदासक्तः
बुद्धियोगम् = समाहितचित्तत्वम्
उपाश्रित्य = अवलम्ब्य
मच्चित्तः = मन्मनाः ।

अर्थः सम्पादयतु

सर्वाण्यपि कर्माणि मयि विन्यस्य अहमेव परः पुरुषार्थः इति मन्यमानः समाहितचित्तः सर्वदा मय्येव मनः स्थापय ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=चेतसा_सर्वकर्माणि...&oldid=418544" इत्यस्माद् प्रतिप्राप्तम्