तमेव शरणं गच्छ...
(१८.६२ तमेव शरणं गच्छ इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः सम्पादयतु
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तमेव शरणं गच्छ सर्वभावेन भारत ।
- तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्विषष्टितमः(६२) श्लोकः ।
पदच्छेदः सम्पादयतु
तम् एव शरणं गच्छ सर्वभावेन भारत तत् प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥
अन्वयः सम्पादयतु
भारत ! सर्वभावेन तम् एव शरणं गच्छ । तत्प्रसादात् परां शान्तिं शाश्वतं स्थानं प्राप्स्यसि ।
शब्दार्थः सम्पादयतु
- सर्वभावेन = सर्वात्मना
- शरणम् = आश्रयम्
- गच्छ = प्राप्नुहि
- तत्प्रसादात् = ईश्वरानुग्रहात् ।
अर्थः सम्पादयतु
अर्जुन ! तस्मात् त्वं सर्वात्मना तमेव ईश्वरं शरणं गच्छ, यस्यानुग्रहात् परमां शान्तिं प्राप्नुवन् शाश्वतं स्थानम् अवाप्स्यसि ।