इति ते ज्ञानमाख्यातं...
(१८.६३ इति ते ज्ञानमाख्यातं इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया ।
- विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रिषष्टितमः(६३) श्लोकः ।
पदच्छेदः
सम्पादयतुइति ते ज्ञानम् आख्यातं गुह्यात् गुह्यतरं मया विमृश्य एतत् अशेषेण यथा इछसि तथा कुरु ॥
अन्वयः
सम्पादयतुमया गुह्यात् गुह्यतरम् एतत् ज्ञानम् इति ते आख्यातम् । एतत् अशेषेण विमृश्य यथा इच्छसि तथा कुरु।
शब्दार्थः
सम्पादयतु- गुह्यात् = गोप्यात्
- गुह्यतरम् = अतिशयेन गोप्यम्
- ज्ञानम् = तत्त्वम्
- आख्यातम् = कथितम्
- अशेषेण = सकलम्
- विमृश्य = आलोच्य ।
अर्थः
सम्पादयतुअर्जुन ! मया एतावन्तं कालम् अत्यन्तं रहस्यं तत्त्वं विशदीकृतम् । एतत् सर्वं सम्यक् ज्ञात्वा यत् कर्तुम् इच्छसि तत् कुरु ।