इदं ते नातपस्काय...

(१८.६७ इदं ते नातपस्काय इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ ६७ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तषष्टितमः(६७) श्लोकः ।

पदच्छेदः सम्पादयतु

इदं ते न अतपस्काय न अभक्ताय कदाचन न च अशुश्रूषवे वाच्यं न च मां यः अभ्यसूयति ॥

अन्वयः सम्पादयतु

इदं ते कदाचन अतपस्काय न वाच्यम् । न अभक्ताय, न च अशुश्रूषवे, मां यः अभ्यसूयति तस्मै न ।

शब्दार्थः सम्पादयतु

कदाचन = कदापि
अतपस्काय = तपोविहीनाय
वाच्यम् = कथनीयम्
अभक्ताय = भक्तिहीनाय
अशुश्रूषवे = असेविने
अभ्यसूयति = न सहते ।

अर्थः सम्पादयतु

एतावन्तं कालं यदुक्तं गीतार्थतत्त्वं तत् त्वया तपोविहीनाय न वाच्यम् । भक्तिहीनाय न वाच्यम् । असेविने न वाच्यम् । मां यः न सहते तस्मै अपि न वाच्यम् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=इदं_ते_नातपस्काय...&oldid=418480" इत्यस्माद् प्रतिप्राप्तम्