न च तस्मान्मनुष्येषु...

(१८.६९ न च तस्मान्मनुष्येषु इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६९ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवषष्टितमः(६९) श्लोकः ।

पदच्छेदः सम्पादयतु

न च तस्मात् मनुष्येषु कश्चित् मे प्रियकृत्तमः भविता न च मे तस्मात् अन्यः प्रियतरः भुवि ॥

अन्वयः सम्पादयतु

मनुष्येषु च तस्मात् कश्चित् मे न प्रियकृत्तमः । तस्मात् अन्यः प्रियतरः भुवि न च भविता ।

शब्दार्थः सम्पादयतु

प्रियकृत्तमः = अत्यन्तं प्रियकरः
प्रियतरः = इष्टतरः
भुवि = भूमौ
भविता = भविष्यति ।

अर्थः सम्पादयतु

मनुष्येषु तस्मात् प्रियकारी अपरः कोऽपि नास्ति । तस्मात् अन्यः मम प्रियो नापि भविष्यति । सः एव प्रियकारी, सः एव च मम अत्यन्तं प्रियः इति जानीहि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु