अध्येष्यते च ये इमं...

(१८.७० अध्येष्यते च य इमं इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
अध्येष्यते च ये इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्ततितमः(७०) श्लोकः ।

पदच्छेदः सम्पादयतु

अध्येष्यते च ये इमं धर्म्यं संवादम् आवयोः ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥

अन्वयः सम्पादयतु

यः च धर्म्यम् आवयोः इमं संवादम् अध्येष्यते तेन ज्ञानयज्ञेन अहम् इष्टः स्याम् इति मे मतिः ।

शब्दार्थः सम्पादयतु

धर्म्यम् = धर्मयुक्तम्
संवादम् = सम्भाषणम्
अध्येष्यते = पठिष्यति
ज्ञानयज्ञेन = ज्ञानरूपयागेन
इष्टः = पूजितः
स्याम् = भवेयम् ।

अर्थः सम्पादयतु

यो वा मनुष्यः आवयोः इदं सम्भाषणं सम्यक् पठिष्यति सः ज्ञानयज्ञेन मां यजति इत्येव मम मतिः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अध्येष्यते_च_ये_इमं...&oldid=418397" इत्यस्माद् प्रतिप्राप्तम्