व्यासप्रसादाच्छ्रुतवान्...

(१८.७५ व्यासप्रसादाच्छ्रुतवाने इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चसप्ततितमः(७५) श्लोकः ।

पदच्छेदः सम्पादयतु

व्यासप्रसादात् शृतवान् एतत् गुह्यम् अहं परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥

अन्वयः सम्पादयतु

साक्षात् कथयतः योगेश्वरात् कृष्णात् गुह्यं परम् एतत् योगं व्यासप्रसादात् अहं स्वयं श्रुतवान् ।

शब्दार्थः सम्पादयतु

साक्षात् = प्रत्यक्षम्
कथयतः = वदतः
योगेश्वरात् = योगप्रभोः
कृष्णात् = वासुदेवात्
गुह्यम् = रहस्यम्
परम् = उत्तमम्
योगम् = योगग्रन्थम्
व्यासप्रसादात् = व्यासानुग्रहात्
श्रुतवान् = आकर्णितवान् ।

अर्थः सम्पादयतु

योगेश्वरः कृष्णः साक्षात् स्वमुखेन यदिदं गीतार्थतत्त्वम् उक्तवान् तदहं व्यासानुग्रहेण श्रुतवान् अस्मि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु