तत्रैकाग्रं मनः कृत्वा...

भगवद्गीतायाः श्लोकः ९.१२
(६.१२ तत्रैकाग्रं मनः... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकःसंपादित करें

 
गीतोपदेशः
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदःसंपादित करें

तत्र एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्य आसने युञ्ज्यात् योगम् आत्मविशुद्धये ॥

अन्वयःसंपादित करें

यतचित्तेन्द्रियक्रियः शुचौ देशे स्थिरं नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् आत्मनः आसनं प्रतिष्ठाप्य तत्र आसने उपविश्य मनः एकाग्रं कृत्वा आत्मविशुद्धये योगं युञ्ज्यात् ।

शब्दार्थःसंपादित करें

यतचित्तेन्द्रियक्रियः = नियतेन्द्रियव्यापारः
शुचौ = परिशुद्धे
देशे = स्थाने
स्थिरम् = अचलम्
नात्युच्छ्रितम् = नात्युन्नतम्
नातिनीचम् = नातिनिम्नम्
चैलाजिनकुशोत्तरम् = वस्त्रकृष्णाजिनदर्भोत्तरम्
आत्मनः = स्वस्य
आसनम् = पीठम्
प्रतिष्ठाप्य = संस्थाप्य
तत्र = तस्मिन्
आसने = पीठे
उपविश्य = उपविश्य
मनः = चित्तम्
एकाग्रम् = संलग्नम्
कृत्वा = विधाय
आत्मविशुद्धये = अन्तःकरणनैर्मल्याय
योगम् = समाधिम्
युञ्ज्यात् = युञ्जीत ।

अर्थःसंपादित करें

शुद्धे स्थाने अधोभागे तादृशम् आसनं भवेत् यत् न अत्युन्नतं नापि अतिनीचम् । तस्मिंश्च आसने कुशान् अजिनं मृदुवस्त्रं च क्रमेण प्रसार्य, तत्र उपविश्य अवधानेन मनःप्रभृतीनां सर्वेषाम् इन्द्रियाणां क्रियां नियन्त्र्य चित्तशुद्धये समाधिं कुर्यात् ।

शाङ्करभाष्यम्संपादित करें

प्रतिष्ठाप्य किम्-तत्र तस्मिन्नासन उपविश्य योगं युञ्ज्यात्। कथं, सर्वविषयेभ्य उपसंहृत्यैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः चित्तं चेन्द्रियाणि च चितेन्द्रियाणितेषां क्रियाः संयता यस्य स यतचित्तेन्द्रियक्रियः। स किमर्थं योगं युञ्ज्यादित्याह आत्मविशुद्धयेऽन्तःकरणस्य विशुध्द्यर्थमित्येतत् ।।12।।

बाह्यसम्पर्कतन्तुःसंपादित करें

सम्बद्धाः लेखाःसंपादित करें