प्रशान्तात्मा विगतभीः...

भगवद्गीतायाः श्लोकः ९.१४
(६.१४ प्रशान्तात्मा विगत... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकःसंपादित करें

 
गीतोपदेशः
प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६.१४॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदःसंपादित करें

प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः मनः संयम्य मच्चित्तः युक्तः आसीत मत्परः ॥

अन्वयःसंपादित करें

कायशिरोग्रीवं समम् अचलं धारयन् स्थिरः भूत्वा स्वं नासिकाग्रं सम्प्रेक्ष्य दिशः च अनवलोकयन् प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः सन् मनः संयम्य मच्चित्तः मत्परः युक्तः आसीत ।

शब्दार्थःसंपादित करें

कायशिरोग्रीवम् = कटिशीर्षकण्ठम्
समम् = अवक्रम्
अचलम् = अकम्पम्
धारयन् = धरन्
स्थिरः = स्थिरः भूत्वा
स्वम् = स्वकीयम्
नासिकाग्रम् = नासिकायाः अग्रभागम्
सम्प्रेक्ष्य =अवलोक्य
दिशः च = दिशः च
अनवलोकयन् = अपश्यन्
प्रशान्तात्मा = शान्तचित्तः
विगतभीः = अपगतभयः
ब्रह्मचारिव्रते = ब्रह्मचर्ये
स्थितः = वर्तमानः
मनः = चित्तम्
संयम्य = नियन्त्र्य
मच्चित्तः = मन्मनस्कः
मत्परः = आत्मपरायणः
युक्तः = समाहितः
आसीत = उपविशेत् ।

अर्थःसंपादित करें

कटिं शिरः ग्रीवां च समं धारयन् निश्चलम् उपविशेत् । दिशः अनवलोकयन् दृष्टिं नासिकाग्रे संस्थापयेत् । प्रशान्तात्मा, भयरहितः ब्रह्मचर्ये स्थितः मनः नियन्त्र्य मयि एव दत्तचित्तः समाहितः सन् उपविशेत् ।

शाङ्करभाष्यम्संपादित करें

किंच-प्रशान्तात्मा प्रकर्षेण शान्त आत्मान्तःकरणं यस्य सोऽयं प्रशान्तात्मा विगतभीर्विगतभ्यो ब्रह्मचारिव्रते स्थितो ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरुशुश्रूषाभिक्षाभुक्तयादितस्मिन्स्थितस्तदनुष्ठाता भवेदित्यर्थः। किंच मनः संयम्य मनसो वृत्तीरुपसंहृत्येत्येतन्मच्चित्तो मयि परमेश्वरे चित्तं यस्य योऽयं मच्चित्तो युक्तः समाहितःसन् उपविशेत्, मत्परोऽहं परो यस्य सोऽयं मत्परः। भवति कश्चिद्रागी स्रीचित्तो नतु स्रीयमेव परत्वेन गृह्णाति, किं तर्हि राजानं महादेवं वा। अयं तु मच्चित्तोमत्परश्च ।।14।।

बाह्यसम्पर्कतन्तुःसंपादित करें

सम्बद्धाः लेखाःसंपादित करें