युक्ताहारविहारस्य...

भगवद्गीतायाः श्लोकः ९.१७
(६.१७ युक्ताहारविहार... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः सम्पादयतु

 
गीतोपदेशः
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १७ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य सप्तदशः(१७) श्लोकः।

पदच्छेदः सम्पादयतु

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगः भवति दुःखहा ॥

अन्वयः सम्पादयतु

युक्ताहारविहारस्य कर्मसु युक्तचेष्टस्य युक्तस्वप्नावबोधस्य योगः दुःखहा भवति ।

शब्दार्थः सम्पादयतु

युक्ताहारविहारस्य = समुचिताहारसञ्चारस्य
कर्मसु = कार्येषु
युक्तचेष्टस्य = समुचितव्यापारस्य
युक्तस्वप्नावबोधस्य = समुचितनिद्राजागरणस्य
योगः = समाधिः
दुःखहा = दुःखनाशकः
भवति = सम्पद्यते ।

अर्थः सम्पादयतु

यः यथाकालं परिमितमेव अश्नाति तथा सञ्चरति, यः धर्मसम्मते कार्ये यथाकालं व्यापृतो भवति, यः यथाकालं निद्राति तथा जागर्ति तस्य पुरुषस्य समाधिः अवश्यं दुःखनाशको भवति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=युक्ताहारविहारस्य...&oldid=482160" इत्यस्माद् प्रतिप्राप्तम्