सुखमात्यन्तिकं यत्तद्...

भगवद्गीतायाः श्लोकः ९.२१
(६.२१ सुखमात्यन्तिकं... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः सम्पादयतु

 
गीतोपदेशः
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ २१ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य एकोविंशतितमः(२१) श्लोकः।

पदच्छेदः सम्पादयतु

सुखम् आत्यन्तिकं यत् तत् बुद्धिग्राह्यम् अतीन्द्रियम् वेत्ति यत्र न च एव अयं स्थितः चलति तत्त्वतः ॥

अन्वयः सम्पादयतु

यत्र यत्तत् बुद्धिग्राह्यम् अतीन्द्रियम् आत्यन्तिकं सुखं वेत्ति, यत्र च स्थितः अयं तत्त्वतः न एव चलति ।

शब्दार्थः सम्पादयतु

यत्र = यस्मिन् अवस्थाविषये
यत्तत् = अनिर्वचनीयम्
बुद्धिग्राह्यम् = मतिबोध्यम्
अतीन्द्रियम् = इन्द्रियागोचरम्
आत्यन्तिकम् = अनन्तम्
सुखम् = आनन्दम्
वेत्ति = जानाति
(यत्र) च स्थितः = यस्मिन् च अवस्थाविशेषे वर्तमानः
अयम् = अयं पुरुषः
तत्त्वतः = स्वरूपतः
न एव चलति = न विचलति.... ।

अर्थः सम्पादयतु

यस्मिन् अवस्थाविशेषे अनिर्वचनीयम्, अनन्तम्, बुद्ध्या एव ग्राह्यम्, इन्द्रियैः ग्रहीतुमशक्यं सुखं वेत्ति, यत्र च अवस्थाविशेषे तस्मिन् सुखे स्थितः आत्मनः स्वरूपात् न चलति ।(तं योगसंज्ञितं विद्यात् ।)

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु