असंशयं महाबाहो...

भगवद्गीतायाः श्लोकः ६.३५
(६.३५ असंशयं महाबां... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः

श्रीभगवान् उवाच -

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।

पदच्छेदः सम्पादयतु

असंशयं महाबाहो मनः दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥

अन्वयः सम्पादयतु

महाबाहो ! असंशयम् मनः दुर्निग्रहं चलम् । कौन्तेय ! अभ्यासेन तु वैराग्येण च गृह्यते ।

शब्दार्थः सम्पादयतु

महाबाहो = हे अर्जुन !
असंशयम् = निस्सन्देहम्
मनः = अन्तःकरणम्
दुर्निग्रहम् = दुर्निरोधम्
चलम् = चञ्चलम्
कौन्तेय = हे कुन्तीपुत्र
तु = परन्तु
अभ्यासेन = आवृत्त्या
वैराग्येण च = वितृष्णया च
गृह्यते = वशीक्रियते ।

अर्थः सम्पादयतु

हे अर्जुन ! मनः नियन्त्रयितुम् अशक्यं चञ्चलं च इत्यत्र संशयः नास्ति । तथापि अभ्यासेन वैराग्येण च तस्य नियन्त्रणं शक्यं भवति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=असंशयं_महाबाहो...&oldid=482221" इत्यस्माद् प्रतिप्राप्तम्