आरुरुक्षोर्मुनेर्योगं...

भगवद्गीतायाः श्लोकः ६.३
(६.३ आरुरुक्षोर्मिनेर्योगं... इत्यस्मात् पुनर्निर्दिष्टम्)
 
गीतोपदेशः
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः

सम्पादयतु

आरुरुक्षोः मुनेः योगं कर्म कारणम् उच्यते योगारूढस्य तस्य एव शमः कारणम् उच्यते ॥

योगम् आरुरुक्षोः मुनेः कर्म कारणम् उच्यते । योगारूढस्य तस्य एव (कर्मसन्न्यासे) शमः कारणम् उच्यते ।

शब्दार्थः

सम्पादयतु
योगम् = ज्ञानयोगम्
आरुरुक्षोः = आरोढुमिच्छतः
मुनेः = मुनीभविष्यतः गृहस्थस्य
कर्म = कर्माचरणम्
कारणम् = साधनम्
उच्यते = कथ्यते
योगारूढस्य = ज्ञानयोगम् आरूढस्य
तस्य एव = मुनीभूतस्य तस्यैव
शमः = उपशमः
कारणम् = ज्ञानपरिपाके साधनम्
उच्यते = निगद्यते ।

समत्वबुद्धिरूपं योगं यः आरोढुम् इच्छति तस्य निष्कामबुद्ध्या कर्माचरणं तत्र कारणं भवति । यदा तादृशं योगम् आरूढः तदा तु ज्ञानपरिपाके शमः कारणं भवति ।

शाङ्करभाष्यम्

सम्पादयतु

ध्यानयोगस्य फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनमिति तं संन्यासत्वेन स्तुत्वाधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति-आरुरुक्षोरिति। आरुरुक्षोरारोढुमिच्छतोऽनारूढस्यध्यानयोगेऽवस्थातुमशक्तस्यैवेत्यर्थः। कस्यारुरुक्षोर्मुनेः कर्मफलसंन्यासिन इत्यर्थः। किमारुरुक्षोर्योगं कर् कारणं साधनमुच्यते, योगारूढस्य पुनस्तस्यैव शमउपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढत्वस्य साधनमुच्यत इत्यर्थः। यावद्यावत्कर्मभ्य तावत्तावन्निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते, तथा सति सझटिटि योगारूढो भवति। तथाचोक्तं व्यासेन 'नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च। शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः'इति ।।3।।

बाह्यसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु