प्रयत्नाद्यतमानस्तु...

भगवद्गीतायाः श्लोकः ६.४५
(६.४५ प्रयत्नाद्यतमानस्तु... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य पञ्चचत्वारिंशत्तमः(४५) श्लॊकः ।

पदच्छेदः सम्पादयतु

प्रयत्नात् यतमानः तु योगी संशुद्धकिल्बिषः अनेकजन्मसंसिद्धः ततः याति परां गतिम् ॥

अन्वयः सम्पादयतु

संशुद्धकिल्बिषः प्रयत्नात् यतमानः योगी तु अनेकजन्मसंसिद्धः ततः परां गतिं याति ।

शब्दार्थः सम्पादयतु

संशुद्धकिल्बिषः = विनष्टपापः
प्रयत्नात् = अधिकं
यतमानः = प्रवर्तमानः
योगी तु = युक्तः तु
अनेकजन्मसंसिद्धः = नानाजन्मसुपरिशुद्धः
ततः = तस्मात् अनन्तरम्
पराम् = प्रकृष्टम्
गतिम् =स्थानम्
याति = गच्छति ।

अर्थः सम्पादयतु

पूर्वोक्तप्रकारेण यत्नेन योगे पुनः पुनः प्रवर्तमानस्य योगिनः सर्वाणि अपि पापानि विनश्यन्ति । विनष्टपापः सः बहुषु जन्मसु शुद्धो भूत्वा मुक्तिरूपां परमां गतिं प्राप्नोति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु