उद्धरेदात्मनात्मानं...

भगवद्गीतायाः श्लोकः ६.५
(६.५ उद्धरेदात्मनात्मानं... इत्यस्मात् पुनर्निर्दिष्टम्)
 
गीतोपदेशः
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः

सम्पादयतु

उद्धरेत् आत्मना आत्मानं न आत्मानम् अवसादयेत् आत्मा एव हि आत्मनः बन्धुः आत्मा एव रिपुः आत्मनः ॥

आत्मानम् आत्मना उद्धरेत् । आत्मानं न अवसादयेत् । आत्मा एव हि आत्मनः बन्धुः । आत्मा एव आत्मनः रिपुः ।

शब्दार्थः

सम्पादयतु
आत्मानम् = स्वम्
आत्मना = विषयसङ्गरहितेन मनसा
उद्धरेत् = उन्नयेत्
आत्मानम् = स्वम्
न अवसादयेत् = न नाशयेत्
आत्मा एव = मनः एव
आत्मनः = स्वस्य
बन्धुः = बान्धवः
आत्मा एव = विषयसङ्कविशिष्टं मनः एव
आत्मनः = स्वस्य
रिपुः = शत्रुः ।

संसारसागरे निमग्नम् आत्मानं विषयसङ्गरहितेन मनसा उद्धारयेत् न तु कदापि विषयसविशिष्टेन संसारसागरे पुनः निमज्जयेत् । कुतः? विषयसङ्गरहितं मनः आत्मनः पोषकम् । तत्सङ्गसहितं तु मनः आत्मनो मारकम् ।

शाङ्करभाष्यम्

सम्पादयतु

यदैवं योगारूढस्तदा तेनात्मात्मनोद्धृतो भवति संसारादनर्थव्रातात्, अतः उद्धरेत्संसारसागरे निमग्नमात्मानात्मानं तत उदूर्ध्वं हरेदुद्धरेत् योगारूढतामापादयेदित्यर्थः।नात्मानमवसादयेन्नाधो नयेन्नाधो गमयेत्। आत्मैव हि यस्मादात्मनो बन्धु। नह्यन्यः कश्चिद्वन्धुर्यः संसारमुक्ते भवति। बन्धुरपि तावन्मोक्षं प्रति प्रतिकूल एवस्नेहादिबन्धनायतनत्वात्। तस्माद्युक्तमवधारणमात्मैव ह्यात्मनो बन्धुरिति। आत्मैव रिपुः शत्रुर्योऽन्योऽपकारी बाह्यः शत्रुः सोऽप्यात्मप्रयुक्त एवेति युक्तमेवाबधारणमात्मैवरिपुरात्मन इति।।5।।

बाह्यसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु