ज्ञानविज्ञानतृप्तात्मा...

भगवद्गीतायाः श्लोकः ६.८
(६.८ ज्ञानविज्ञानतृप्तात्मा... इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकःसंपादित करें

 
गीतोपदेशः
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्तइत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ८ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदःसंपादित करें

ज्ञानविज्ञानतृप्तात्मा कूटस्थः विजितेन्द्रियः युक्तः इति उच्यते योगी समलोष्टाश्मकाञ्चनः ॥

अन्वयःसंपादित करें

ज्ञानविज्ञानतृप्तात्मा कूटस्थः समलोष्टाश्मकाञ्चनः विजितेन्द्रियः युक्तः योगी इति उच्यते ।

शब्दार्थःसंपादित करें

ज्ञानविज्ञानतृप्तात्मा = ज्ञानानुभवसन्तुष्टचित्तः
कूटस्थः = निर्विकारः
समलोष्टाश्मकाञ्चनः = मृत्पाषाणसुवर्णेषु समानबुद्धिः
विजितेन्द्रियः = वशीकृतेन्द्रियः
युक्तः = समाहितचित्तः
योगी इति = योगी इति
उच्यते = अभिधीयते ।

अर्थःसंपादित करें

गुरुणा उपदिष्टस्य ज्ञानेन प्रत्यक्षानुभवेन च यस्य चित्तं प्रसन्नं वर्तते यश्च निर्विकारः यश्च इन्द्रियाणां वशीकर्ता वर्तते, यस्य च मृत्पिण्डे पाषणे सुवर्णे च समानताबुद्धिः सञ्जाता, तादृशः समाधौ मग्नः योगी इति कथ्यते । (ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञानम् । विज्ञानं शास्त्रतो ज्ञातानां तथा एव स्वानुभवविषयीकरणम् ।)

शाङ्करभाष्यम्संपादित करें

ज्ञानेति। ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्रोक्तपदार्थानां परिज्ञानं, विज्ञानं तु शास्रतो ज्ञातानां तथैव स्वानुभवकरणं ताभ्यां ज्ञानविज्ञानाभ्यां तृप्तःिसंजातालंप्रत्यय आत्मान्तकरणं यस्य स ज्ञानविज्ञानतृप्तात्मा कूटस्थोऽप्रकम्प्यो भवतीत्यर्थः। विजितेन्द्रियश्च। य ईदृशो युक्तः समाहित इति स उच्यते कथ्यते।स योगी समलोष्टाश्मकाञ्चनो लोष्टाश्मकाञ्चनानि समानि यस्य स समलोष्टाश्मकाञ्चनः ।।8।।

बाह्यसम्पर्कतन्तुःसंपादित करें

सम्बद्धाः लेखाःसंपादित करें