त्रिभिर्गुणमयैर्भावैः...

भगवद्गीतायाः श्लोकः ७.१३
(७.१३ त्रिभिर्गुणमयैः... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः सम्पादयतु

त्रिभिः गुणमयैः भावैः एभिः सर्वम् इदं जगत् मोहितं न अभिजानाति मामेभ्यः परम् अव्ययम् ॥ १३ ॥

अन्वयः सम्पादयतु

गुणमयैः त्रिभिः एभिः भावैः इदं सर्वं जगत् मोहितम् । एभ्यः परम् अव्ययं मां न अभिजानाति ।

शब्दार्थः सम्पादयतु

गुणमयैः = गुणविकारैः काममोहादिभिः
त्रिभिः = त्रिविधैः
एभिः = एतैः
भावैः = पदार्थैः
इदम् = एतत्
सर्वम् = सकलम्
जगत् = भुवनम्
मोहितम् = व्यामोहितम्
(तस्मात्) एभ्यः = (तस्मात्) एतेभ्यः
परम् = विलक्षणम्
अव्ययम् = नाशरहितम्
मां न अभिजानाति = मां न वेद ।

अर्थः सम्पादयतु

काममोहादयः सत्त्वादीनां गुणानां विकाराः । तैः विभ्रान्ताः इमे जनाः तान् गुणविकारान् अतीत्य वर्तमानं मां ज्ञातुं न शक्नुवन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु