तेषां ज्ञानी नित्ययुक्त...

भगवद्गीतायाः श्लोकः ७.१७
(७.१७ तेषां ज्ञानी नित्यं... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ १७ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः सम्पादयतु

तेषां ज्ञानी नित्ययुक्तः एकभक्तिः विशिष्यते प्रियः हि ज्ञानिनः अत्यर्थम् अहं स च मम प्रियः ॥ १७ ॥

अन्वयः सम्पादयतु

तेषां नित्ययुक्तः एकभक्तिः ज्ञानी विशिष्यते । अहं हि ज्ञानिनः अत्यर्थं प्रियः । सः च मम प्रियः ।

शब्दार्थः सम्पादयतु

तेषाम् = तेषु
नित्ययुक्तः = सततयोगी
एकभक्तिः = अनन्यभक्तिः
ज्ञानी = ज्ञानवान्
विशिष्यते = अतिरिच्यते
अहं हि = अहम्
ज्ञानिनः = ज्ञानवतः
अत्यर्थम् = अतिशयेन
प्रियः = अभीष्टः
सः च = सः अपि
मम = मे
प्रियः = अभीष्टः ।

अर्थः सम्पादयतु

तेषां सततयोगी अनन्यभक्तिः ज्ञानी विशिष्यते । अहं ज्ञानवतः अतीव प्रियः । सोऽपि मम अतीवप्रियः ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु