उदाराः सर्व एवैते...

भगवद्गीतायाः श्लोकः ७.१८
(७.१८ उदाराः सर्व एव... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ १८ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः सम्पादयतु

उदाराः सर्वः एव एते ज्ञानी तु आत्मा एव मे मतम् आस्थितः स हि युक्तात्मा माम् एव अनुत्तमां गतिम् ॥ १८ ॥

अन्वयः सम्पादयतु

एते सर्वे उदाराः एव । ज्ञानी तु मे आत्मा एव (इति) मतम् । सः हि युक्तात्मा अनुत्तमां गतिं माम् एव आस्थितः ।

शब्दार्थः सम्पादयतु

एते = इमे
सर्वे = सकलाः
उदाराः एव = उत्कृष्टाः एव
ज्ञानी तु = ज्ञानवान् तु
आत्मा एव = आत्मा एव (इति)
मे = मम
मतम् = अभिप्रायः
हि = यस्मात्
सः = ज्ञानी
युक्तात्मा = समाहितचित्तः
अनुत्तमाम् = उत्कृष्टाम्
गतिम् = पदम्
मामेव आस्थितः = माम् एव मत्वा प्राप्तः ।

अर्थः सम्पादयतु

एते सर्वे उत्कृष्टाः एव । ज्ञानवान् तु मत्तः अन्यः न, अपि तु मत्स्वरूपः एव इति मम अभिप्रायः । यतः सः ज्ञानवान् प्राप्यं पदं भगवान् एव इति मामेव आश्रितवान् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=उदाराः_सर्व_एवैते...&oldid=418490" इत्यस्माद् प्रतिप्राप्तम्