बहूनां जन्मनामन्ते...

भगवद्गीतायाः श्लोकः ७.१९
(७.१९ बहूनां जन्मनामन्ते... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदः सम्पादयतु

बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥ २९ ॥

अन्वयः सम्पादयतु

बहूनां जन्मनाम् अन्ते वासुदेवः सर्वम् इति (यः) ज्ञानवान् मां प्रपद्यते सः महात्मा सुदुर्लभः ।

शब्दार्थः सम्पादयतु

बहूनाम् = असङ्ख्यानाम्
जन्मनाम् = जन्मनाम्
अन्ते = अवसाने
वासुदेवः = नारायणः
सर्वम् इति = निखिलम् इति
(यः = यः पुरुषः)
ज्ञानवान् = ज्ञानयुक्तः
मां प्रपद्यते = मां प्राप्नोति
सः = तादृशः
महात्मा = महानुभावः
सुदुर्लभः = अत्यन्तं दुष्प्रापः ।

अर्थः सम्पादयतु

असङ्ख्यानां जन्मनाम् समाप्तौ सत्यां सर्वमपि एतत् वासुदेवः इति ज्ञानयुक्तः मां प्राप्नोति । तादृशः पुरुषः अत्यन्तं दुष्प्रापः ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=बहूनां_जन्मनामन्ते...&oldid=418682" इत्यस्माद् प्रतिप्राप्तम्