कामैस्तैस्तैर्हृतज्ञानाः ...
भगवद्गीतायाः श्लोकः ७.२०
(७.२० कामैस्तै तैः ... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
- तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २० ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य विंशतितमः(२०) श्लोकः ।
पदच्छेदः
सम्पादयतुकामैः तैः तैः हृतज्ञानाः प्रपद्यन्ते अन्यदेवताः तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥ २० ॥
अन्वयः
सम्पादयतुतैः तैः कामैः हृतज्ञानाः स्वया प्रकृत्या नियताः तं तं नियमम् आस्थाय अन्यदेवताः प्रपद्यन्ते ।
शब्दार्थः
सम्पादयतु- तैः तैः = अनेकविधैः
- कामैः = अभिलाषैः
- हृतज्ञानाः = अपगतविवेकाः
- स्वया = स्वकीयेन
- प्रकृत्या = स्वभावेन
- नियताः = नियन्त्रिताः
- तं तम् = बहुप्रकारम्
- नियमम् = जपोपवासरूपं नियमम्
- आस्थाय = आश्रित्य
- अन्यदेवताः = इतरदेवताः
- प्रपद्यन्ते = भजन्ते ।
अर्थः
सम्पादयतुअनेकविधैः अभिलाषैः अपगतविवेकाः केचन जनाः स्वस्य स्वभावेन नियन्त्रिताः सन्तः तं तं जपोपवासादिरूपं नियमम् आश्रित्य मां विहाय अन्याः देवताः भजन्ते ।