अन्तवत्तु फलं तेषां...
भगवद्गीतायाः श्लोकः ७.२३
(७.२३ अन्तवत्तु फलं... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
- देवान्देवयजो यान्ति मक्ता यान्ति मामपि ॥ २३ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य त्रयोविंशतितमः(१३) श्लोकः ।
पदच्छेदः
सम्पादयतुअन्तवत् तु फलं तेषां तत् भवति अल्पमेधसाम् देवान् देवयजो यान्ति मद्भक्ताः यान्ति माम् अपि ॥ २३ ॥
अन्वयः
सम्पादयतुअल्पमेधसां तेषां तत् फलं तु अन्तवत् भवति । देवयजः देवान् यान्ति । मक्ताः अपि मां यान्ति ।
शब्दार्थः
सम्पादयतु- अल्पमेधसाम् = अल्पमतीनाम्
- तेषाम् = भक्तानाम्
- तत् फलं तु = तत् प्रयोजनं तु
- अन्तवत् = विनाशि
- भवति = सम्पद्यते
- देवयजः = देवाराधकाः
- देवान् = विविधदेवान्
- यान्ति = प्राप्नुवन्ति
- मक्ताः अपि = मदाराधकाः तु
- माम् = माम्
- यान्ति = प्राप्नुवन्ति ।
अर्थः
सम्पादयतुअल्पमतीनां भक्तानां तत् फलं तु विनाशि भवति । देवान् ये आराध्यन्ति ते तान् देवान् प्राप्नुवन्ति । ये माम् आराध्यन्ति ते तु माम् एव प्राप्नुवन्ति ।