वेदाहं समतीतानि...

भगवद्गीतायाः श्लोकः ७.२६
(७.२६ वेदाहं समतीतानि... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य षड्विंशतितमः(२६) श्लोकः ।

पदच्छेदः सम्पादयतु

वेद अहं समतीतानि वर्तमानानि च अर्जुन भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥

अन्वयः सम्पादयतु

अर्जुन ! अहं समतीतानि वर्तमानानि च भविष्याणि च भूतानि वेद । मां तु कश्चन न वेद ।

शब्दार्थः सम्पादयतु

अहम् = परमेश्वरः अहम्
समतीतानि = अतिक्रान्तानि
वर्तमानानि च = वर्तमानानि च
भविष्याणि च = आगामीनि अपि
भूतानि = स्थावरजमानि
वेद = जानामि
मां तु = परमेश्वरं तु
कश्चन = कोऽपि
न वेद = न जानाति ।

अर्थः सम्पादयतु

हे अर्जुन ! अहं अतिक्रान्तानि वर्तमानानि आगामीनि अपि सर्वाण्यपि भूतानि जानामि । मां तु कोऽपि न जानाति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वेदाहं_समतीतानि...&oldid=418821" इत्यस्माद् प्रतिप्राप्तम्