इच्छाद्वेषसमुत्थेन...
भगवद्गीतायाः श्लोकः ७.२७
(७.२७ इच्छाद्वेषसमुत्यें... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
- सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ २७ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य सप्तविंशतितमः(२७) श्लोकः ।
पदच्छेदः
सम्पादयतुइच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ २७ ॥
अन्वयः
सम्पादयतुभारत, परन्तप ! सर्गे सर्वभूतानि इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन सम्मोहं यान्ति ।
शब्दार्थः
सम्पादयतु- भारत = अर्जुन !
- परन्तप = शत्रुतापन !
- सर्गे = देहोत्पत्तौ सत्याम्
- सर्वभूतानि = भूतजातम्
- इच्छाद्वेषसमुत्थेन = रागद्वेषसम्भूतेन
- द्वन्द्वमोहेन = द्वन्द्वव्यामोहेन
- सम्मोहम् = मूढत्वम्
- यान्ति = लभन्ते ।
अर्थः
सम्पादयतुयदा स्थूलदेहस्य उत्पत्तिः भवति तदैव विषयेषु रागः द्वेषश्च सम्भवति । तेन च शीतोष्णसुखदुःखादिद्वन्द्वात् जातेन विवेकनाशेन अहं सुखी अहं दुःखी इति जानन्तः सर्वेऽपि प्राणिनः मोहम् आपन्नाः मां न जानन्ति ।