साधिभूताधिदैवं मां...

भगवद्गीतायाः श्लोकः ७.३०
(७.३० साधिभूताधिदैवं ... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य त्रिंशत्तमः(३०) श्लोकः ।

पदच्छेदः सम्पादयतु

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः प्रयाणकाले अपि च मां ते विदुः युक्तचेतसः ॥ ३० ॥

अन्वयः सम्पादयतु

ये साधिभूताधिदैवं साधियज्ञं च मां विदुः ते युक्तचेतसः प्रयाणकाले अपि च मां विदुः ।

शब्दार्थः सम्पादयतु

ये = ये मानवाः
साधिभूताधिदैवम् = प्रतिभूतं प्रतिदैवं च वर्तमानम्
साधियज्ञं च = प्रतियज्ञमपि वर्तमानम्
मां विदुः = मां जानन्ति
ते = ते मानवाः
युक्तचेतसः = समाहितमनसः
प्रयाणकाले अपि च = मरणसमये अपि
मां विदुः = मां जानन्ति ।

अर्थः सम्पादयतु

ये मां प्रतिभूतं प्रतिदैवं प्रतियज्ञं च वर्तमानं जानन्ति ते मानवाः समाहितमनसः मरणसमये अपि मां जानन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=साधिभूताधिदैवं_मां...&oldid=418877" इत्यस्माद् प्रतिप्राप्तम्