भूमिरापोऽनलो वायुः...

भगवद्गीतायाः श्लोकः ७.४
(७.४ भूमिरापोऽनलः... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः सम्पादयतु

भूमिः आपः अनलः वायुः खं मनो बुद्धिः एव च अहङ्कारः इति इयं मे भिन्ना प्रकृतिः अष्टधा ॥ ४ ॥

अन्वयः सम्पादयतु

भूमिः आपः अनलः वायुः खं मनः बुद्धिः अहङ्कारः च एव इति इयं मे प्रकृतिः अष्टधा भिन्ना ।

शब्दार्थः सम्पादयतु

भूमिः = पृथिवी
आपः = जलम्
अनलः = अग्निः
वायुः = मरुत्
खम् = आकाशः
मनः = चित्तम्
बुद्धिः एव च = मतिः च
अहङ्कारः इति = अहङ्कारः इति
इयम् = एषा
मे = मम
प्रकृतिः = शक्तिः
अष्टधा = अष्टभिः प्रकारैः
भिन्ना = भेदं गता (वर्तते) ।

अर्थः सम्पादयतु

पृथिवी जलम् अग्निः वायुः आकाशः मनः बुद्धिः अहङ्कारः च इति मम प्रकृतिः अष्टभिः प्रकारैः भिन्ना अस्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भूमिरापोऽनलो_वायुः...&oldid=418697" इत्यस्माद् प्रतिप्राप्तम्