मामुपेत्य पुनर्जन्म...
(८.१५ मापुपेत्य पुनर्जन्म.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
- नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य पञ्चदशः (१५) श्लोकः ।
पदच्छेदः
सम्पादयतुमाम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वतं न आप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥
अन्वयः
सम्पादयतुपरमां संसिद्धिं गताः महात्मानः माम् उपेत्य अशाश्वतं दुःखालयं पुनर्जन्म न आप्नुवन्ति |
शब्दार्थः
सम्पादयतु- परमाम् = उत्कृष्टाम्
- संसिद्धिम् = सिद्धिम् (मोक्षरूपाम्)
- गताः = प्राप्ता:
- महात्मानः = महापुरुषा:
- माम् उपेत्य = मां लब्ध्वा
- अशाश्वतम् = अस्थिरम्
- दुःखालयम् = दु:खस्थानम्
- पुनर्जन्म = पुनर्जन्म
- न आप्नुवन्ति = न लभन्ते |
अर्थः
सम्पादयतुउत्कृष्टां मोक्षरूपां सिद्धिं प्राप्तवन्त: महापुरुषा: यदा मां लभन्ते पश्चात् ते क्षणिकं दु:खस्थानमिदं पुनर्जन्म न प्राप्नुवन्ति |