अव्यक्ताद्व्यक्तयः सर्वाः...
(८.१८ अव्यक्तात् व्यक्तयः.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
- रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य अष्टादशः (१८) श्लोकः ।
पदच्छेदः
सम्पादयतुअव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्ति अहरागमे रात्र्यागमे प्रलीयन्ते तत्र एव अव्यक्तसंज्ञके ॥ १८ ॥
अन्वयः
सम्पादयतुअहरागमे अव्यक्तात् सर्वाः व्यक्तयः प्रभवन्ति । रात्र्यागमे अव्यक्तसंज्ञके तत्र एव प्रलीयन्ते ।
शब्दार्थः
सम्पादयतु- अहरागमे = दिनारम्भे
- अव्यक्तात् = कारणीभूतात्
- प्रजापतेः सर्वाः = सकलाः
- व्यक्तयः = स्थावरजमाः भावाः
- प्रभवन्ति = उत्पद्यन्ते
- रात्र्यागमे = निशारम्भे
- अव्यक्तसञ्ज्ञके = अव्यक्तनामके
- तत्र एव = तस्मिन् एव प्रजापतौ
- प्रलीयन्ते = विलीनाः भवन्ति ।
अर्थः
सम्पादयतुयदा दिनस्य आरम्भः भवति तदा कारणीभूतात् प्रजापतेः सर्वे स्थावरजमात्मकाः प्राणिनः सम्भवन्ति । यदा पुनः रात्रेः आरम्भः तदा कारणीभूते अव्यक्ते तस्मिन् एव प्रजापतौ सर्वेऽपि एते प्रलीनाः भवन्ति ।