भूतग्रामः स एवायं...

(८.१९ भूतग्रामः स एव.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदः सम्पादयतु

भूतग्रामः स एव अयं भूत्वा भूत्वा प्रलीयते रात्र्यागमे अवशः पार्थ प्रभवति अहरागमे ॥ १९ ॥

अन्वयः सम्पादयतु

पार्थ ! सः एव अयं भूतग्रामः अवशः भूत्वा भूत्वा रात्र्यागमे प्रलीयते । अहरागमे प्रभवति ।

शब्दार्थः सम्पादयतु

पार्थ = अर्जुन !
सः एव अयम् = सः एव एषः
भूतग्रामः = भूतसमुदायः
अवशः = कर्मपरवशः सन्
भूत्वा भूत्वा = पुनः पुनः उत्पद्य
रात्र्यागमे = निशारम्भे
प्रलीयते = निलीयते
अहरागमे = दिनारम्भे
प्रभवति = उत्पद्यते ।

अर्थः सम्पादयतु

अर्जुन ! सः एषः भूतसमुदायः कर्माधीनः सन् पुनःपुनः उत्पद्य निशारम्भे निलीयते । दिनारम्भे प्रभवति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भूतग्रामः_स_एवायं...&oldid=418696" इत्यस्माद् प्रतिप्राप्तम्