अव्यक्तोऽक्षर इत्युक्तः...

(८.२१ अव्यक्तोक्षर.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य एखविंशतितमः(२१) श्लोकः ।

पदच्छेदः सम्पादयतु

अव्यक्तः अक्षर इति उक्तः तम् आहुः परमां गतिम् यं प्राप्य न निवर्तन्ते तत् धाम परमं मम ॥ २१ ॥

अन्वयः सम्पादयतु

अव्यक्तः अक्षरः इति उक्तः तं परमां गतिम् आहुः । यं प्राप्य न निवर्तन्ते तत् मम परमं धाम ।

शब्दार्थः सम्पादयतु

अव्यक्तः = परमात्मा
अक्षरः = इति
उक्तः = कथितः
तम् = अक्षरम्
परमम् = उत्तमाम्
गतिम् = स्थानम्
आहुः = वर्णयन्ति
यम् = अक्षरम्
प्राप्य = गत्वा
न निवर्तन्ते = न प्रत्यागच्छन्ति
तत् मम = तत् मे
परमम् = उत्कृष्टम्
धाम = स्थानम् ।

अर्थः सम्पादयतु

परमात्मा अक्षरः इति कथितः । तम् उत्तमा गतिरिति वर्णयन्ति । तम् अक्षरं प्राप्य पुरुषाः न पुनः आगच्छन्ति तदेव मम उत्कृष्टं स्थानम् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु