यत्र काले त्वनावृत्तिम्...

(८.२३ यत्र काले त्वं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य त्रयोविंशतितमः (२३) श्लोकः ।

पदच्छेदः सम्पादयतु

यत्र काले तु अनावृत्तिम् आवृत्तिं च एव योगिनः प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥

अन्वयः सम्पादयतु

भरतर्षभ ! योगिनः यत्र काले तु प्रयाताः आवृत्तिम् अनावृत्तिं चैव यान्ति तं कालं वक्ष्यामि ।

शब्दार्थः सम्पादयतु

भरतर्षभ = भरतश्रे !

योगिनः = कर्मिणः (अष्टायोगिनः)
यत्र = यस्मिन्
काले तु = समये
प्रयाताः = मृताः
आवृत्तिम् = प्रत्यागमनम्
अनावृत्तिं च = अनागमनं च
यान्ति = प्राप्नुवन्ति
तं कालम् एव = तं समयम्
वक्ष्यामि = वदिष्यामि ।

अर्थः सम्पादयतु

भरतश्रे ! कर्मिणः यस्मिन् समये मृताः आवृत्तिं वा अनावृत्तिम् एव यान्ति तं कालं वक्ष्यामि ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु