अग्निर्ज्योतिरहः शुक्लः...
(८.२४ अग्निर्ज्योतिरहः.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
- तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ २४ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य चतुर्विंशतितमः (२४) श्लोकः ।
पदच्छेदः
सम्पादयतुअग्निः र्ज्योतिः अहः शुक्लः षण्मासाः उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदः जनाः ॥ २४ ॥
अन्वयः
सम्पादयतुअग्निः ज्योतिः अहः शुक्लः षण्मासाः उत्तरायणं तत्र प्रयाताः ब्रह्मविदः जनाः ब्रह्म गच्छन्ति ।
शब्दार्थः
सम्पादयतु- अग्निः = अनलः (देवता)
- ज्योतिः = कान्तिः
- अहः = दिवसः
- शुक्लः = शुक्लपक्षः
- षण्मासाः उत्तरायणम् = षण्मासावधिकमुत्तरायणम्
- तत्र = तस्मिन् काले
- प्रयाताः = गताः
- ब्रह्मविदः = ब्रह्मोपासकाः
- जनाः = मानवाः
- ब्रह्म = परं वस्तु
- गच्छन्ति = यान्ति ।
अर्थः
सम्पादयतुयत्र अनलः (देवता) कान्तिः (देवता) दिवसः (देवता) शुक्लपक्षः षण्मासावधिकम् उत्तरायणम् (देवता) तस्मिन् काले गताः ब्रह्मोपासकाः जनाः ब्रह्म गच्छन्ति ।