धूमो रात्रिस्तथा कृष्णः...
(८.२५ धूमोरात्रिः तथा.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
- तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य पञ्चविंशतितमः(२५) श्लोकः ।
पदच्छेदः
सम्पादयतुधूमः रात्रिः तथा कृष्णः षण्मासाः दक्षिणायनम् तत्र चान्द्रमसं ज्योतिः योगी प्राप्य निवर्तते ॥ २५ ॥
अन्वयः
सम्पादयतुधूमः रात्रिः कृष्णः तथा षण्मासाः दक्षिणायनं तत्र योगी चान्द्रमसं ज्योतिः प्राप्य निवर्तते ।
शब्दार्थः
सम्पादयतु- धूमः = धूमः (देवता)
- रात्रिः = निशा (देवता)
- कृष्णः = कृष्णपक्षः (देवता)
- तथा = एवम्
- षण्मासाः दक्षिणायनम् = षण्मासावधिकं दक्षिणायनम्
- तत्र = तस्मिन् समये
- योगी = कर्मयोगी च
- चान्द्रमसम् = चन्द्रसम्बन्धि
- ज्योतिः = अर्चिः (कान्तिम्)
- प्राप्य = लब्ध्वा
- निवर्तते = पुनः आगच्छति ।
अर्थः
सम्पादयतुयत्र धूमः (देवता) रात्रिः (देवता) एवं कृष्णपक्षः (देवता) षण्मासाः दक्षिणायनम् (देवता) तत्र काले गतः योगी चन्द्रलोकं प्राप्य निवर्तते ।