शुक्लकृष्णे गती ह्येते...

(८.२६ शुक्लकृष्णे.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ २६ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य षड्विंसशतितमहः (२६) श्लोकः ।

पदच्छेदः सम्पादयतु

शुक्लकृष्णे गती हि एते जगतः शाश्वते मते एकया याति अनावृत्तिम् अन्यया आवर्तते पुनः ॥ २६ ॥

अन्वयः सम्पादयतु

एते हि शुक्लकृष्णे गती जगतः शाश्वते मते । एकया अनावृत्तिं याति अन्यया पुनः आवर्तते ।

शब्दार्थः सम्पादयतु

एते हि = इमे
शुक्लकृष्णे = शुक्ला कृष्णा चेति
गती = मार्गौ
जगतः = प्रपञ्चस्य
शाश्वते = नित्यौ
मते = अभीष्टौ
एकया = एकेन मार्गेण
अनावृत्तिम् = अनागमनम्
याति = गच्छति
अन्यया = अपरेण मार्गेण
पुनः = भूयः
आवर्तते = आवृत्तिं प्राप्नोति ।

अर्थः सम्पादयतु

एवं शुक्लः कृष्णः चेति द्वौ मार्गौ स्तः । तत्र शुक्लमार्गेण ये गच्छन्ति ते न पुनरायान्ति । कृष्णमार्गेण पुनः ये गच्छन्ति ते चन्द्रलोकं प्राप्य पुनरायान्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु