अधिभूतं क्षरो भावः...

(८.४ अधिभूतं क्षरोभावः.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः सम्पादयतु

अधिभूतं क्षरः भावः पुरुषः च अधिदैवतम् अधियज्ञः अहम् एव अत्र देहे देहभृतां वर ॥ ४ ॥

अन्वयः सम्पादयतु

क्षरः भावः अधिभूतम्, पुरुषः च अधिदैवतम् । देहभृतां वर ! अत्र देहे अहम् एव अधियज्ञः ।

शब्दार्थः सम्पादयतु

क्षरः = विनाशशीलः
भावः = पदार्थः
अधिभूतम् = अधिभूतम् इति व्यवह्रियते
पुरुषः च =हिरण्यगर्भः च
अधिदैवतम् = अधिदैवतम् इति कथ्यते
देहभृतां वर = शरीरिणां श्रे ! (अर्जुन)
अत्र = अस्मिन्
देहे = शरीरे
अहम् एव = अहं केवलम्
अधियज्ञः = अधियज्ञः ।

अर्थः सम्पादयतु

विनाशशीलः वस्तुसमुदायः अधिभूतम् इति उच्यते । सर्वप्राणीन्द्रियाणाम् अनुग्राहकः हिरण्यगर्भः च अधिदैवतम् इति कथ्यते । अर्जुन ! अत्र शरीरे अहमेव अधियज्ञः इति ज्ञातव्यम् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अधिभूतं_क्षरो_भावः...&oldid=418393" इत्यस्माद् प्रतिप्राप्तम्