अन्तकाले च मामेव...
(८.५ अन्तकाले च मामेव.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
- यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य पञ्चमः(५) श्लोकः ।
पदच्छेदः
सम्पादयतुअन्तकाले च माम् एव स्मरन् उक्त्वा कलेवरम् यः प्रयाति स मद्भावं याति न अस्ति अत्र संशयः ॥ ५ ॥
अन्वयः
सम्पादयतुयः अन्तकाले च माम् एव स्मरन् कलेवरं मुक्त्वा प्रयाति सः पुरुषः मद्भावं याति । अत्र न संशयः ।
शब्दार्थः
सम्पादयतु- अन्तकाले च = मरणसमये
- माम् एव = मामेव
- स्मरन् = चिन्तयन्
- कलेवरम् = देहम्
- मुक्त्वा = परित्यज्य
- यः प्रयाति = यः गच्छति
- सः = सः पुरुषः
- मावम् = मद्रूपताम्
- याति = प्रयाति
- अत्र = अस्मिन् विषये
- संशयः = सन्देहः
- न अस्ति = न वर्तते ।
अर्थः
सम्पादयतुयः अन्तकाले माम् एव चिन्तयन् शरीरं परित्यजति सः पुरुषः अवश्यं मदभेदं प्राप्नोति । अस्मिन् विषये सन्देहः न वर्तते ।